Skip to content

Cvičení 51 ​

१. कौटिलीयार्थशास्त्र १, ३, ९ - १२: आश्रमधर्मः ​

गृहस्तस्य स्वधर्माजीवस्तुल्यैरसमानार्षिभिर्वैवाह्यमृतुगाित्वं देवपित्रातिथिपूजा भृत्येषु त्यागः शेषभोजनं च ॥ ९ ॥

Domovník by měl:

  • mít živobytí odpovídající jeho specifickému dharmu
  • uzavřít sňatek s osobami stejného postavení z jiného gotry (Ṛṣi)
  • mít pohlavní styk v plodných obdobích ženy
  • uctívat bohy, předky a hosty
  • být štědrý vůči těm, kteří na něm závisí
  • a jíst to, co zbyde.

ब्रह्मचारिणः स्वाध्यायो ऽग्निकार्याभिषेकौ भैक्षाव्रतित्वमाचार्ये प्राणान्तिकी वृत्तिस्तदभावे गुरुपुत्रे सब्रह्मचारिणि वा ॥ १० ॥

Celibátní student védy by měl:

  • studovat Védu
  • rituálně udržovat oheň
  • vykonávat posvátné obřady s vodou (abhiṣeka)
  • dodržovat slib žít z almužny (bhikṣā)
  • pobývat u áčárji a starat se o něj až do jeho smrti, nebo u syna mistra nebo spolužáka.

वानप्रस्थस्य ब्रह्मचर्यं भूमौ शय्या जाटाजिनधारणमग्निहोत्राभिषेकौ देवतापित्रतिथिपूजा वन्यश्चाहारः ॥ ११ ॥

Lesní asketa by měl:

  • žít v celibátu
  • spát na zemi
  • nosit spletené vlasy a kůži antilopy
  • vykonávat ohenní oběti a posvátné obřady s vodou
  • uctívat bohy, předky a hosty
  • živit se produkty z lesa.

प्रव्राजकस्य जितेन्द्रियत्वमनारम्भो निष्किंचनत्वं सङ्गत्यागो भैक्षाव्रतमनेकत्रारण्ये च वासो बाह्याभ्यन्तरं च शौचम् ॥ १२ ॥

Bezdomní poutník-asketa má:

  • ovládnout své smysly
  • nezačínat nic nového
  • být bez jakéhokoli majetku
  • vzdát se veškerého pouta
  • dodržovat slib žít z almužny
  • bydlet na mnoha místech v divočině
  • být čistý uvnitř i navenek.

Bezdomní poutník-asketa má:

  • ovládnout své smysly
  • nezačínat nic nového
  • být bez jakéhokoli majetku
  • vzdát se veškerého pouta
  • dodržovat slib žít z almužny
  • bydlet na mnoha místech v divočině
  • být čistý uvnitř i navenek.

२. कौटिलीयार्थशास्त्र १, ३, १६ - १७: O nutnosti dbát na वर्णश्रमधर्म ​

तस्मात्स्वधर्मं भूतानां राजा न व्यभिचारयेत् ।
स्वधर्मं संदधानो हि प्रेत्य चेह च नन्दति ॥ १६ ॥

व्यवस्थितार्यमर्यादः कृतवर्णाश्रमस्थितिः ।
त्रय्याभिरक्षितो लोकः प्रसीदति न सीदति ॥ १७ ॥

Proto by král neměl odvádět bytosti od jejich specifického dharma. Kdo totiž plní svůj specifický dharma, ten se těší po své smrti i v tomto životě. Pokud je řád vznešených pevný, pokud jsou stavy a životní fáze ustáleny, pak žije svět chráněný třemi védy v míru a nezaniká.


३. बाण (७. st. n. l.): कादम्बरी ​

Úvahy papouška वैशम्पायन o životě lovce:

आसीच्च मे मनसि -- अहो मोहप्रायमेतेषां जीवितं साधुजनगर्हितं च चरितम् । तथा हि । पुरुषपिशितोपहारे धर्मबुद्धिः , अहारः साधुजनगर्हितो मधुमांसादिः , श्रमो मृगया , शास्त्रं शिवारुतम् , समुपदेष्टारः सद्सतां कौशिकाः , प्रज्ञा शकुनिज्ञानम् , परिचिताः श्वानः , राज्यं शून्यास्वटवीषु , आपानकमुत्सवः , मित्राणि क्रुरकर्मसाधनानि धनूंषि , सहाया विषदिग्धमुखा भुजंगा इव सायकाः , गीतमुत्सादकारि मुग्धमृगाणाम् , कलत्राणि बन्दीगृहीताः परयोषितः , क्रूरात्मभिः शार्दूलैः सह संवासः , पशुरुधिरेण देवतार्चनम् , मांसेन बलिकर्म , चौर्येण जीवनम् , भूषणानि भुजंगमणयः , वनकरिमदैरङ्गरागः , यस्मिन्नेव कानने निवसन्ति तदेवोत्ख्यातममूलमशेषतः कुर्वत इति चिन्तयत्येव मयि शबरसेनापतिः समुपाविशत् ॥

A stalo se mi jasné: Ach, jejich [lovcův] život spočívá především v nevědomosti a jejich chování je kritizováno dobrými lidmi. A to takto: Pokládají obětování lidského masa za pravou náboženskost; jejich strava spočívá v medovině, mase a podobných věcech, které jsou dobrými lidmi kritizovány; jejich snahou je lov; jejich učením je výkřik šakalů; sovy jsou jejich učitelé dobra a zla; jejich moudrostí je znalost ptáků; jejich společníky jsou psi; jejich říší jsou prázdné lesy; jejich svátkem je opilství; jejich přáteli jsou luky, které konají kruté činy; jejich druhy jsou šípy, jejichž hroty jsou potřísněny jedem jako hadi; jejich zpěv přináší zkázu zmatené zvěři; jejich ženami jsou unesené mladé dívky jiných; bydlí společně s krutými tygry; božstvům vzdávají hold zvířecí krví; jako obětiny přinášejí maso; žijí z loupeže; jejich ozdobou jsou hadí drahokamy; své končetiny si mačká šťávou z horkých slonů v říši; každý les, kde se usadí, zcela vyvracejí – Když jsem tak přemýšlel, vešel ke mně generál Šabharů.


Obr.: Lovci
(Zdroj obrázku: Podrobnosti)


४. Komentář k भानुचन्द्र (१६. století) ​

Komentář k předchozí části कादम्बरी:

आसीच्चेति । मे मम मनसि चित्त आसीद्बभूव । खेद इति शेषः । तदेव दर्शयति -- अहो इत्यादिना । अहो इत्याश्चर्ये । एतेषां भिल्लानां जीवितं प्राणितं मोहो ऽज्ञानं प्रायं प्रचुरं यत्र तादृशम् । चः पुनरर्थे । चरितमाचरणं साधुजनैः सज्जनजनैर्गर्हितं निन्दितम् । तदेव विशेषतो दर्शयति -- तथा हीति । पुरुषेति । पुरुषस्य पुंसो यत्पिशितं मांसं तस्य य उपहारो भगवत्यै नैवेद्यदर्शनं तस्मिन्धर्मबुद्धिः श्रेयोधीः । आहार इति । आहारः प्रत्यवसानं साधुजनैर्गर्हितो निन्दितो मधुमांसादिर्मधुः मद्यं माक्षिकं वा । मांसं प्रतीतम् । ते आदौ यस्येति बहुव्रीहिः । आदिशब्दात्कन्दादिपरिग्रहः । श्रम इति । श्रमः शक्तिसाधनायासो मृगयाखेटकः । शास्त्रमिति । शिवा सृगाली तस्य रुतं शब्दितं शास्त्रमुच्चस्वरवेदपाठः । प्रबोधजनकत्वसाम्यात्तदुपमानम् । सदिति । सदसतां शुभाशुभानां समुपदेष्टारो बोधकाः कौशिका उलूकाः । प्रज्ञेति । शकुनयः पत्त्रिणस्तेषां स्थूलमहत्त्वादिना ज्ञानं तदेव प्रज्ञा विवेकबुद्धिः । परीति । श्वानः सारमेयाः परिचिता विश्वासपालत्राणि । राज्यमिति । शून्यासु जनरहितासु विन्ध्याटवीषु राज्यं स्वामित्वम् । आपानकेति । उत्सवः संतुष्टिकार्यं तदेवापानमेवापानकम् । स्वार्थे कः । पानगोष्ठिका । मित्राणीति । क्रूरं यत्कर्म तत्साधनानि तद्धेtuभूतानि धनूंष्येव चापान्येव मित्राणि सहृदः । हितचिन्तकानीति यावत् । सहाया इति । विषेण दिग्धं मुखमाननं येषामेवंविधाः सायका बाणास्त एव सहाया इष्टकार्यकर्तृत्वात्साहाय्यकारिणः । क इव । भुजंगाः सर्पा इव । एतेषां विषदिग्धमुखत्वं स्वाभाविकम् । तेषामौपाधिकमिति भावः । गीतमिति । मुग्धा अनभिज्ञा ye मृगा हरिणास्तेषामुत्साहकारि स्तब्धताविधायि गीतं गानम् । कलत्रेति । परयोषितो ऽन्यस्त्रिय एव बन्दी ग्रहकस्तद्रूपत्वेन गृहीताः स्त्रीकृताः कलत्राणि स्वपत्न्यः । क्रूरेति । क्रूरात्मभिर्दुष्टात्मभिः शार्दुलैश्चित्रकैः समं संवासः सहावस्थानम् । पश्वेति । पशवो महिषास्तेषां रुधिरेण रक्तेन देवतार्चनं देवपूजनम् । मांसेनेति । मांसेन पिशितेन बलिर्हन्तकरस्तत्कर्म तत्कृत्यम् । चौर्येणेति । चौर्येण परद्रव्यापहारेण जीवनं प्राणधारणम् । भूषणनीति । भूषणान्याभरणानि भुजंगमणयः सर्परत्नानि । पर्वतवासित्वात्तेषां ते सुलभा इति भावः । वनेति । वनकरिणामरण्यहस्तिनां मदैर्दानवारिभिरङ्गरागो विलेपनम् । यस्मिन्निति । अनिर्दिष्टनामनि कानने वने निवसन्ति निवासं कुर्वन्ति तदेव काननमशेषतः समग्रत उत्खातमुत्पाटितं मूलं मध्यभागो यस्यैवंभूतं कुर्वते विदधत इति पूर्वोक्तप्रकारेण मयि चिन्तयति ध्यायति सत्येव ... ॥

[!NOTE] Scholastické sanskrt
Jako první úvod do komentářového sanskrtu se hodí:
Tubb, Gary A. & Boose, Emery R.: Scholastic Sanskrit: A Handbook for Students. New York: American Institute of Buddhist Studies, 2007.


Obr.: Scholastické sanskrt
(Zdroj obrázku: Podrobnosti)

Součást Global Village Library od Tüpfliho