Skip to content

Cvičení 20 ​

A) Přeložte a rozložte sanskrtská složená slova:

१. इन्द्रशत्र्वनार्या देवेन्द्रेण जीयन्ते ॥१॥ इन्द्रः शत्रुर्येषां ते ऽनार्या देवानामिन्द्रेण जीयन्ते । (nebo: इन्द्रस्य शत्रव एवानार्या...)
Vládce bohů poráží ne-Aryjce, nepřátele Indraovy (nebo: jejichž nepřítelem je Indra).

२. शूरबलक्षत्रिययोधः शूरपुत्रमिच्छति ॥२॥ शूरस्य बलं यस्य स क्षत्रिय एव योधः शूरमेव पुत्रमि्च्छति ॥
Kṣatrijský válečník s silou hrdiny si přeje syna hrdinu.

३. सुदुर्गममार्गेण स्वर्गं गम्यते । सुगमस्तु नरकमार्गः ॥३॥ सुदुर्गमेण मार्गेण स्वर्गं गम्यते । सुगमस्तु नरकस्य मार्गः ॥
Na velmi obtížné cestě se člověk dostane do nebe. Cesta do pekla je však jednoduchá.

४. मृतपुत्रब्राह्मणी रोदिति ॥४॥ मृतः पुत्रो यस्याः सा ब्राह्मणी रोदिति ॥
Brahmanka, jejíž syn zemřel, pláče.

५. वीतमोहब्राह्मणः सम्पन्नरूपामपि शूद्रां न लुभ्यति ॥५॥ वीतो मोहो यस्य स ब्राह्मणः सम्पन्नं रूपं यस्यास्तामपि शूद्रां न लुभ्यति ॥
Brahman osvobozený od nevědomosti si nepřeje šúdrskou ženu, i kdyby měla dokonalé tělo.

६. सुनीतिपुत्रः प्राप्तमतिदर्शनसाधुं गच्छति ॥६॥ शोभना नीतिर्यस्य स पुत्रः प्राप्तं मतेर्दर्शनं येन तं साधुं गच्छति ॥
Laskavý syn jde k svatému, který získal schopnost číst myšlenky.

७. प्राप्तप्रभावक्षत्रिया दृष्टमात्राञ्छत्रून्घन्ति ॥७॥ प्राप्तः प्रभावो यैस्ते क्षत्रिया दृष्टं मात्रं येषां ताञ्छत्रून्घन्ति ॥
Kṣatrijové, kteří získali moc, zabíjejí nepřátele hned poté, co je spatří.

८. जितशत्रुयोधाः शत्रुजितान्मुञ्चन्ति ॥८॥ जितः शत्रुर्यैस्ते योधाः शत्रुणा जितान्मुञ्चन्ति । (nebo: जिताः शत्रवो यैस्त्ते...)
Vojáci, kteří porazili nepřítele, osvobozují od nepřítele poražené.

९. कृतोपनयनबालः शिवादिदेवपूजां करोति ॥९॥ कृतमुपनयनं यय्स स बालः शिव आदिर्येषां तेषां देवानां पुजां करोति ॥
Chlapec zasvěcený do Véd ctí Šivu a ostatní bohy.

१०. बुद्धगता दुःखादिसत्यानि शृण्वन्ति ॥१०॥ बुद्धं गता दुःखमादिर्येषां तानि सत्यानि शृण्वन्ति ॥
Ti, kteří odešli k Buddhovi, slyší pravdu o utrpení a ostatní (ušlechtilé) pravdy.

B) Přeložte pomocí složených slov do sanskrtu:

  1. Kṣatriya, který nemá hůl v ruce, nechrání lid.
    अदण्डहस्तः क्षत्रियो न जनान्पाति । (nebo: जनान्रक्षति ।)

  2. Kālidāsa a ostatní básníci jsou učiteli sanskrtu.
    संस्कृतगुरवः कालिदासादिक्वयः ।

  3. Kṣatriya má svůj obživu prostřednictvím zbraní.
    शस्त्राजीवः क्षत्रियः ।

  4. I ženy ze šúdrů mají jako dharmu neagresi, pravdu, čistotu, nemrznutí, nezlobnost a trpělivost.
    अहिंसासत्यशौचानसूयानृशंस्यक्षमाधर्माः शूद्रा अपि ॥


Obr.: शस्त्राजीवः क्षत्रियः
(Zdroj obrázku: Podrobnosti)


Analýza složených slov ​

Rozložte následující složená slova jako Bahuvrīhi a/nebo Dvandva a/nebo Tatpuruṣa na všechny vám možné způsoby v sanskrtu.

१. इन्द्रशत्रवः । इन्द्रस्य शत्रवः । (nebo: इन्द्रः शत्रुर्येषां ते ।)

२. दुष्कुलायाः । दुष्टं कुलं यस्यास्तसाः । ३. जातिमात्रस्य । जातेर्मात्रस्य । (nebo: जातिरेव मात्रं यस्य तस्य ।)

४. प्राप्तोदकाः । प्राप्तमुदकं यैस्ते । (nebo: प्राप्तमुदकं याभिस्ताः ।)

५. सुनीतिभिः । शोभनाभिर्नीतिभिः । (nebo: शोभना नीतिर्येषां तैः ।)

६. मृतपुत्रः । मृतः पुत्रः । (nebo: मृतः पुत्रो यस्य सः ।)

७. गतपुण्येन । गतेन पुण्येन । (nebo: गतं पुण्यं यस्य तेन ।)

८. आर्यरूपम् । आर्यास्य रूपम् । (nebo: आर्यं रूपं यस्य तम् ।)

९. मुक्तासनया । मुक्तमासनं यया तया । १०. तद्रूपः । तद्रूपं यस्य सः । (nebo: तस्य रूपं यस्य सः ।)

११. कृतफलानाम् । कृतस्य फलानाम् । (nebo: कृतं फलं यैस्तेषाम् ।)

१२. व्याघ्रबलाः । व्याघ्रस्य बलं येषां ते । १३. प्राप्तकाला । प्राप्तः कालो यया सा । १४. शूरपुत्राम् । शूरः पुत्रो यस्यास्ताम् । १५. कृतभिषेखः । कृतो ऽभिषेखः । (nebo: कृतो ऽभिषेखो यस्य सः ।)

१६. शूरबलान् । शूरस्य बलं येषां तान् । १७. वीतमोहः । वीतो मोहः । (nebo: वीतो मोहो यस्य सः ।)

१८. दण्डहस्तस्य । दण्डस्यैव हस्तस्य । (nebo: हस्ते दण्डो यस्य तस्य ।)

१९. गतमात्रम् । गतं मात्रम् । (nebo: गतं मात्रमेव यस्य तम् ।)

२०. इन्द्रपुत्रा । इन्द्रः पुत्रो यस्याः सा । (matka Indraova = पृथिवी)

२१. तद्गुणाः । तस्य गुणाः । (nebo: स गुणो येषां ते ।)

२२. उपल्ब्धसुखैः । उपल्ब्धैः सुखैः । (nebo: उपलब्धं सुखं यैस्तैः ।)

२३. प्राप्तप्रभावः । प्राप्तः प्रभावः । (nebo: प्राप्तः प्रभावो येन सः ।)

२४. तन्मात्राणि । तस्य मात्राणि । (nebo: तन्मात्रं येषां तानि ।)

२५. प्रभूतरूपा । प्रभूतं रूपं यस्याः सा । (vynikající postavy)

२६. कृतोपनयनाः । कृतमुपनयनं येषां ते । २७. विगतनयनम् । विगतं नयनं यस्य तम् । (slepý)

२८. बुद्धमार्गेण । बुद्धस्य मार्गेण । (nebo: बुद्धो मार्गो यस्य तेन ।)

२९. विजयफलान् । विजयस्य फलानि येषां तान् । ३०. दुर्गमः । těžké k přechodu

३१. समयकारः । समयस्य कारः । (dohoda)

३२. सम्पन्नरूपाम् । सम्पन्नं रूपं यस्यास्ताम् । ३३. रूपसम्पन्नाम् । रूपेण सम्पन्नाम् । (dokonalý v postavě)

३४. अपुण्यानाम् । न पुण्यं येषां तेषाम् । (bez zásluh)

३५. मृतगृहाणि । मृतानां गृहाणि । (mrtvolní domy)

३६. अजनस्य । bez lidí

३७. तद्देवतैः । सा देवता येषां तैः । ३८. जातपुत्राः । जाताः पुत्रा येषां ते । ३९. दुरन्ताभिः । špatně končící

४०. भूतसर्गेण । भूतानां सर्गेण । ४१. मतिदर्शनम् । मतीनां दर्शनम् । (vidění myšlenek)

४२. मुक्तहस्ता । मुक्तं हस्तं यस्याः सा । (štedrý)

४३. तदन्तः । तस्यान्तः । (nebo: सो ऽन्तो यस्य सः ।)

४४. जातिमात्रम् । जातिरेव मात्रं यस्य तम् । (pouze podle narození)

४५. तज्जयेन । तस्य जयेन । (nebo: तस्य जयो यस्य तेन ।)

४६. लब्धधनानाम् । लब्धं धनं येषां तेषाम् । ४७. सुदर्शः । dobře viditelné

४८. सकारणः । s příčinou

४९. तनादयः । तन् atd. (= 8. třída přítomného času)

५०. जातमात्राम् । जातमेव मात्रं यस्यस्ताम् । (právě vzniklé)

५१. दुर्जातयः । špatného původu

५२. हतपुत्रः । हतः पुत्रो यस्य सः । ५३. दुरासितम् । špatný způsob sezení

५४. इष्टदेवतया । इष्टा देवता यस्यास्तया । ५५. कृतपुण्याभिः । कृतं पुण्यं याभिस्ताभिः । ५६. श्रुत्युदितम् । श्रुतेरुदितम् । ५७. गतपापैः । गतं पापं येषां तैः । ५८. जितारिणा । जितो ऽरि येन तेन । ५९. जातकोपा । जातः कोपो यस्याः सा । ६०. जातिधर्मः । जातीनां धर्मः । ६१. तत्प्रभृतयः । सा प्रभृतिर्येषां ते । (to atd.)

६२. सुदुर्जयः । velmi těžké k poražení

६३. जितक्रोधेन । जितः क्रोधो यस्य तेन । ६४. दुरुपदेशम् । obtížné vyučování

६५. लब्धलाभा । लब्धो लाभो यया सा । ६६. बुद्धदासः । बुद्धस्य दासः । ६७. मुक्तबुद्धिः । मुक्ता बुद्धिर्यस्य सः । ६८. यज्ञकालम् । यज्ञस्य कालम् । ६९. जितशत्रून् । जितः शत्रुर्यैस्तान् । ७०. शत्रुजितान् । शत्रुणा जितान् । ७१. तत्फलः । तस्य फलं यस्य सः ।

७२. सुगुणा । dobré kvality

७३. जातक्रोधः । जातः क्रोधो यस्य सः । ७४. दृष्टमात्रः । jakmile byl spatřen

७५. भूतकालः । minulost

७६. सुनेत्राः । dobrýma očima

७७. तदादीनाम् । सादिर्येषां तेषाम् । ७८. जातिस्मरणम् । vzpomínka na předchozí narození

७९. सफलम् । plodný

८०. अकरुणस्य । bez soucitu

८१. सोढदुःखाः । सोढं दुःखं यैस्ते ।


Obr.: सम्पन्नरूपा रूपसम्पन्ना
(Zdroj obrázku: Podrobnosti)


Scholarly Fragments ​

मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनतश्चित्तप्रसादनम् ॥ योगसूत्र १.३३ ॥
Ujasnění mysli se děje prostřednictvím rozvoje přátelské laskavosti, soucitu, radostného podílu a rovnováhy, které mají za objekt štěstí i neštěstí, záslužné i nezáslužné.

तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ योगसूत्र २.१ ॥ समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ योगसूत्र २.२ ॥
Jóga činu je asketismus, studium Védy a pozorná služba PÁNU. Jeho cílem je rozvoj soustředění a oslabení „trýzní“.

त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः ॥ सांख्यसूत्र १.१ ॥
Nejvyšším cílem člověka je, aby trojí utrpení zcela zmizelo. (Trojí utrpení: z nás samých, od předmětů, od bohů.)

बाधनालक्षणं दुःखम् ॥ न्यायसूत्र १.२१ ॥ तदत्यन्तविमोक्षो ऽपवर्गः ॥ न्यायसूत्र १.२२ ॥
Utrpení je charakterizováno tísní. Vysvobození je úplné osvobození od něj.

न स्वर्गो नापवर्गो वा नैवात्मा पारलौकिकः । नैव वर्णाश्रमादीनां क्रियाश्च फलदायिकाः ॥
Nebe neexistuje, neexistuje osvobození, neexistuje nadsvětská duše; neexistují ani plodné rituály a činnosti pro kastovní vrstvy a životní etapy. ( सर्वदर्शनसंग्रह )

देवानां करदा विप्रा विप्राणां करदा नृपाः । नृपाणां करदा लोका लोकानां करदा मही ॥
Bráhmané odvádějí daně bohům, bráhmanům odvádějí daně králové, králům odvádějí daně lidé, lidem odvádějí daně země.

भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः । यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥ मनुस्मृति ८.४१६ ॥
Manželka, syn a otrok – ti tři jsou podle tradice bez majetku. Co oni získají, je majetkem toho, komu patří.

तनुमध्यं पृथुश्रोणि रक्तौष्ठमसितेक्षणम् । नतनाभि वपुः स्त्रीणां कं न हन्त्युन्नतस्तनम् ॥
V pasu štíhlá, na bocích široká, s červenými rty a černýma očima, se zahnutým pupkem a plnými prsy – jakého muže nezabije takové krásné ženské tělo?

सन्ति पुत्राः सुबहवो दरिद्राणामनिच्छताम् । नास्ति पुत्रः समृद्धानां विचित्रं विधिचेष्टितम् ॥
Chudí, kteří si přejí děti, mají mnoho synů; bohatí nemají ani jediného. Divný je běh stvoření.


Obr.: सन्ति पुत्राः सुबहवो दरिद्राणाम्
(Zdroj obrázku: Podrobnosti)

Součást Global Village Library od Tüpfliho